|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.195. अध्यायः 195
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
रेणुकनामकेन करेणुना देवादीन्प्रति दिग्गजगदितधर्मनिवेदनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[भीष्म उवाच।
ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः।
उवाच वचनं देवान्वासवं च शचीपतिम्॥ 13-195-1(89052)
अयं महाबलो नागो रसातलचरो बली।
तेजस्वी रेणुको नाम महासत्वपराक्रमः॥ 13-195-2(89053)
अतितेजस्विनः सर्वे महावीर्या महागजाः।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम्॥ 13-195-3(89054)
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान्।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै॥ 13-195-4(89055)
पितामहवचःक श्रुत्वा ते देवा रेणुकं तदा।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः॥ 13-195-5(89056)
रेणुक उवाच। 13-195-6x(7431)
अनुज्ञातोऽस्मि देवैश्च पितृभिस्चक महाबलाः।
धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः।
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम्॥ 13-195-6(89057)
दिग्गजा ऊचुः। 13-195-7x(7432)
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा।
तेन नक्षत्रयोगेन यो ददाति गुडौदनम्।
इमं मन्त्रं जपच्छ्राद्धे यताहारो ह्यकोपनः॥ 13-195-7(89058)
बलदेवप्रभृतयो ये नागा बलवत्तराः।
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः॥ 13-195-8(89059)
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः।
ते मे बलिं प्रयच्छन्तु बलतेजोभिवृद्धये॥ 13-195-9(89060)
यदा नारायणः श्रीमानुज्जहार वसुन्धराम्।
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा॥ 13-195-10(89061)
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत्॥ 13-195-11(89062)
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम्।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे॥ 13-195-12(89063)
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः।
श्रमं तं नावबुध्यामो धारयन्तो वसुन्धराम्॥ 13-195-13(89064)
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः॥ 13-195-14(89065)
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत्।
वल्मीके बलिमादाय तन्नो बहुफलं मतम्॥ 13-195-15(89066)
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः॥ 13-195-16(89067)
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा।
ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम्॥] ॥ 13-195-17(89068)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः॥ 195 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-195-2 नागो गजः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|